केन उपनिषद (संस्कृत)

प्रथम खण्ड

केन इषितम् पतति प्रेषितम् मनः केन प्राणः प्रथमः प्रैति युक्तः । केन इषिताम् वाचम् इमाम् वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥१॥

श्रोत्रस्य श्रोत्रं मनसो मनो यत् वाचः ह वाचम् स उ प्राणस्य प्राणः । चक्षुषः चक्षुः अतिमुच्य धीराः प्रेत्य अस्मात् लोकात् अमृताः भवन्ति ॥२॥

न तत्र चक्षुः गच्छति न वाक् गच्छति नो मनो न विद्मो न विजानीमो यथा एतत् अनुशिष्यात् अन्यत् एव तत् विदितात् अथो अविदितात् अधि । इति शुश्रुम पूर्वेषां ये नः तत् व्याचचक्षिरे ॥३॥

यत् वाचा अनभ्युदितम् येन वाक् अभ्युद्यते । तत् एव बृह्म त्वं विद्धि न इदम् यत् इदम् उपासते ॥४॥

यत् मनसा न मनुते येन आहुः मनो मतम् । तत् एव बृह्म त्वं विद्धि न इदम् यत् इदम् उपासते ॥५॥

यत् चक्षुषा न पश्यति येन चक्षूँषि पश्यति । तत् एव बृह्म त्वं विद्धि न इदम् यत् इदम् उपासते ॥६॥

यत् श्रोत्रेण न श्रणोति येन श्रोत्रम् इदम् श्रुतम् । तत् एव बृह्म त्वं विद्धि न इदम् यत् इदम् उपासते ॥७॥

यत् प्राणेन न प्राणिति येन प्राणः प्रणीयते । तत् एव बृह्म त्वं विद्धि न इदम् यत् इदम् उपासते ॥८॥

द्वितीय खण्ड

यदि मन्यसे सुवेद इति दभ्रम् एव अपि नूनं त्वं वेत्थ बृह्मणो रूपम् । यदस्य त्वं यदस्य देवेषु अथ नु मीमांस्यम् एव ते मन्ये विदितम् ॥१॥

न अहम् मन्ये सुवेद इति नो न वेद इति वेद च । यो नः तत् वेद तत् वेद नो न वेद इति वेद च ॥२॥

यस्य अमतम् तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातं अविजानतां ॥३॥

प्रतिबोधविदितं मतम् अमृतत्वं हि विन्दते । आत्मना विन्दते वीर्यं विद्यया विन्दते अमृतम् ॥४॥

इह चेत् अवेदीत् अथ सत्यम् अस्ति न चेत् इह अवेदीत् महती विनष्टिः । भूतेषु भूतेषु विचित्य धीराः प्रेत्य अस्मात् लोकात् अमृता भवन्ति ॥५॥

तृतीय खण्ड

ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह बृह्मणो विजये देवा अमहीयन्त त ऐक्षन्त अस्माकम् एव अयम् विजयः अस्माकम् एव अयम् महिमा इति ॥१॥

तत् ह एषाम् विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत किम् इदम् यक्षम् इति ॥२॥

ते अग्निम् अब्रुवन् जातवेदः एतत् विजानीहि किम् इदम् यक्षम् इति तथा इति ॥३॥

तत् अभ्यद्रवत् तम् अभ्यवदत् कः असि इति अग्नि वै अहम् अस्मि इति अब्रवीत् जातवेदाः वा अहम् अस्मि इति ॥४॥

तस्मिन् त्वयि किं वीर्यं इति । अपि इदम् सर्वम् दहेयम् , यत् इदम् पृथिव्याम् इति ॥५॥

तस्मै तृणम् निदधौ एतत् दह इति । तत् उपप्रेयाय सर्वजवेन तत् न शशाक दग्धुम् स तत् एव निववृते, न एतत् अशकम् विज्ञातुम् यत् एतत् यक्षम् इति ॥६॥

अथ वायुम् अब्रुवन् वायो एतत् विजानीहि किम् एतत् यक्षम् इति तथा इति ॥७॥

तत् अभ्यद्रवत् तम् अभ्यवदत् कः असि इति । वायुः वा अहम् अस्मि इति अब्रवीत् मातरिश्वा वा अहम् अस्मि इति ॥८॥

तस्मिन् त्वयि किं वीर्यम् इति । अपि इदम् सर्वम् आददीयम् , यत् इदम् पृथिव्याम् इति ॥९॥

तस्मै तृणम् निदधौ एतत् आदत्सव इति । तत् उपप्रेयाय सर्वजवेन तत् न शशाक आदातुम् स तत् एव निववृते, न एतत् अशकम् विज्ञातुं यत् एतत् यक्षम् इति ॥१०॥

अथ इन्द्रम् अब्रुवन् मघवन् एतत् विजानीहि किम् एतत् यक्षम् इति । तथा इति । तत् अभ्यद्रवत् । तस्मात् तिरोदधे ॥११॥

स तस्मिन् एव आकाशे स्त्रियम् आजगाम बहुशोभमानाम् उमाम् हैमवतीम् ताम् ह उवाच किम् एतत् यक्षम् इति ॥१२॥

चतुर्थ खण्ड

सा ब्रह्म इति ह उवाच । बृह्मणो वा एतत् विजये महीयध्वम् इति, ततो ह एव विदाञ्चकार बृह्म इति ॥१॥

तस्मात् वा एते देवा अतितराम् इव अन्यान् देवान् यत् अग्निः वायुः इन्द्रः ते हि एनत् नेदिष्ठम् पस्पृशुः ते हि एनत् प्रथमो विदाञ्चकार बृह्म इति ॥२॥

तस्मात् वा इन्द्रः अतितराम् इव अन्यान् देवान् स हि एनत् नेदिष्ठम् पस्पर्श, स हि एनत् प्रथमो विदाञ्चकार बृह्म इति ॥३॥

तस्य एषः आदेशो यत् एतत् विद्युतो विद्युतत् आ इति इत् न्यमीमिषत् आ इति अधिदैवतम् ॥४॥

अथ अध्यात्मम् यत् एतत् गच्छति इव च मनः अनेन च एतत् उपस्मरति अभीक्ष्णम् संकल्पः ॥५॥

तत् ह तद्वनम् नाम तद्वनम् इति उपासितव्यं स य एतत् एवं वेदाभि ह एनम् सर्वाणि भूतानि संवाञ्छन्ति ॥६॥

उपनिषदं भो ब्रूहि इति उक्ता त उपनिषद् ब्राह्मीम् वाव त उपनिषदम् अब्रूम इति ॥७॥

तस्यै तपो दमः कर्म इति प्रतिष्ठा वेदाः सर्वांगानि सत्यम् आयतनम् ॥८॥

यो वा एताम् एवम् वेद अपहत्य पाप्मानम् अनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥९॥

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s