ईशावास्य उपनिषद (संस्कृत)


ईशा वास्यम् इदं सर्वम यत्किञ्च जगत्यां जगत । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद् धनम् ।।१।।

कुर्वन् एव इह कर्माणि जिजीविषेच्छतँ समाः । एवं त्वयि न अन्यथा इतः अस्ति न कर्म लिप्यते नरे ।।२।।

असुर्या नाम ते लोका अन्धेन तमसा आवृताः । ताँस्ते प्रेत्य अभिगच्छन्ति ये के च आत्म हनः जनाः ।।३।।

अनेजत् एकम् मनसो जवीयो न एनत् देवा आप्नुवन पूर्वम् अर्षत् । तत् धावतो अन्यान अत्येति तिष्ठत् तस्मिन् अपः मातरिश्वा दधाति ।।४।।

तत् एजति तत् न एजति तत् दूरे तत् उ अन्तिके । तत् अन्तः अस्य सर्वस्य तत् उ सर्वस्य अस्य बाह्यतः ।।५ ।।

यः तु सर्वाणि भूतानि आत्मनि एव अनुपश्यति । सर्वभूतेषु च आत्मानं ततो न विजुगुप्सते ।।६ ।।

यस्मिन् सर्वाणि भूतानि आत्मा एव अभूत् विजानतः । तत्र को मोहः कः शोक एकत्वम् अनुपश्यतः ।।७।।

स पर्यगात् शुक्रम् अकायम् अव्रणम् अस्नाविरम् शुद्धम् अपापविद्धम् । कविः मनीषी परिभूः स्वयम्भू याथातथ्यतो अर्थान् व्यदधात् शाश्वतीभ्यः समाभ्यः ।।८।।

अन्घं तमः प्रविशन्ति ये अविद्याम उपासते । ततो भूय इव ते तमो य उ विद्यायाँ रताः ।।९।।

अन्यत् एव आहुः विद्यया अन्यत् आहुः अविद्यया । इति शुश्रुम धीराणां ये नः तत् विचचक्षिरे ।।१०।।

विद्यां च अविद्यां च यः तत् वेद उभयम् सह । अविद्यया मृत्युं तीर्त्वा विद्यया अमृतम् अश्नुते ।।११।।

अन्धं तमः प्रविशन्ति ये असम्भूतिम् उपासते । ततो भूय इव ते तमो य उ सम्भूत्याँ रताः ।।१२।।

अन्यत् एव आहु: सम्भवात् अन्यत् आहुः असम्भवात् । इति शुश्रुम धीराणां ये नः तत विचचक्षिरे ।।१३।।

सम्भूतिं च विनाशं च यः तत् वेद उभयम् सह । विनाशेन मृत्युं तीर्त्वा सम्भूत्या अमृतम् अश्नुते ।।१४ ।।

हिरण्मयेन पात्रेण सत्यस्य अपिहितं मुखम् । तत्त्वं पूषन् अपावृणु सत्यधर्माय द्रष्टये ।।१५।।

पूषन् एकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह । तेजो यत् ते रूपं कल्याणतमं तत्ते पश्यामि यः असावसौ पुरुषः सः अहम् अस्मि ।।१६।।

वायुः अनिलम् अमृतम् अथ इदम् भस्मान्तँ शरीरम् । ॐ क्रतो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर ।।१७।।

अग्ने नय सुपथा राये अस्मान् विश्वानि देव् वयुनानि विद्वान् । युयोधि अस्मत् जुहुराणम् एनः भूयिष्ठां ते नम उक्तिम् विधेम ।।१८।।

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s